|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.43. अध्यायः 043
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् ॥ 1 ॥ तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं तन्निर्वचनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-43-0x(3185)(30200)
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत।
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ॥ 4-43-1(30201)
सुवर्णरुचिराण्येषामायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ 4-43-2(30202)
क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः।
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च। 4-43-3(30203)
कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः।
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः॥ 4-43-4(30204)
धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः ।
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ॥ 4-43-5(30205)
धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत्।
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः॥ 4-43-6(30206)
भीमसेनार्जुनौ चापि सर्वे ते मातुला मम।
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे॥ 4-43-7(30207)
सर्व एव महात्मानः सर्वामित्रविनाशनाः।
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ॥ 4-43-8(30208)
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता।
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ॥ 4-43-9(30209)
उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ॥ 4-43-10(30210)
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः ।
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ॥ 4-43-11(30211)
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम्।
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ॥ 4-43-12(30212)
वैशम्पायन उवाच। 4-43-13x(3186)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ॥ 4-43-13(30213)
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् ।
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ॥ 4-43-14(30214)
वयं ते पाण्डवा नाम वनवासस्य पारगाः।
अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः।
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ॥ 4-43-15(30215)
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः।
भीमसेनस्तु वललः पितुस्ते रसपाचकः।
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ॥ 4-43-16(30216)
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः।
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ॥ 4-43-17(30217)
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः ।
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ॥ 4-43-18(30218)
उत्तर उवाच। 4-43-19x(3187)
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ 4-43-19(30219)
अर्जुन उवाच। 4-43-20x(3188)
अहं तर्हि तवाचक्षे दश नामानि तानि मे।
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते।
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ॥ 4-43-20(30220)
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः।
बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः।
एतानि मम नामानि स्थापितानि सुरोत्तमैः ॥ 4-43-21(30221)
उत्तर उवाच। 4-43-22x(3189)
गुणतो दश नामानि समवेतानि पाण्डवे।
चरन्ति लोके ख्यातानि विदितानि ममावघ ॥ 4-43-22(30222)
केनासि विजयो नाम केनासि श्वेतवाहनः।
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ॥ 4-43-23(30223)
अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे।
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ॥ 4-43-24(30224)
श्रुता मे तस्य वीरस्य केवला नामहेतवः।
इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि।
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ॥ 4-43-25(30225)
अर्जुन उवाच। 4-43-26x(3190)
सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः।
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ॥ 4-43-26(30226)
अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान्।
अजित्वा न निविर्तेयं तेन वै विजयं विदुः ॥ 4-43-27(30227)
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः।
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ॥ 4-43-28(30228)
किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम्।
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ॥ 4-43-29(30229)
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम्।
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ॥ 4-43-30(30230)
न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ 4-43-31(30231)
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे।
भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ।
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ॥ 4-43-32(30232)
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः।
शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः ॥ 4-43-33(30233)
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ 4-43-34(30234)
यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः।
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन ।
पराभवमहं तस्य कुले कुर्यां न संशयः ॥ 4-43-35(30235)
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥ 4-43-36(30236)
माता मम पृथा नाम तेन मां पार्थमब्रुवन् ॥ 4-43-37(30237)
देवदानवगन्धर्वपिशाचोरगराक्षसान् ।
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ॥ 4-43-38(30238)
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना ।
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ॥ 4-43-39(30239)
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ ।
दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः ॥ 4-43-40(30240)
मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ।
कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा।
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ॥ 4-43-41(30241)
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः।
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ॥ 4-43-42(30242)
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च।
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् ।
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ॥ 4-43-43(30243)
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान्।
मातलिं सारथिं कृत्वा निवातकवचान्रणे ।
अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान् ॥ 4-43-44(30244)
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम्।
एको निर्जित्य संग्रामे भूयो देवानतोषयम् ॥ 4-43-45(30245)
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम्।
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ॥ 4-43-46(30246)
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्।
हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे ॥ 4-43-47(30247)
असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च।
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ॥ 4-43-48(30248)
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम्।
भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम्।
चतुर्दश सहस्राणि हत्वा चैनममोचयम् ॥ 4-43-49(30249)
एतानि मम नामानि योऽहन्यहनि कीर्तयेत्।
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ॥ 4-43-50(30250)
अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम्।
मा भैर्विगतसंत्रासः कुरूनेतान्समागतान् ॥ 4-43-51(30251)
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च।
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्।
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशूऩ्] ॥ ॥ 4-43-52(30252)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-43-31 बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ॥ 4-43-32 सव्येन वामेनापि हस्तेन सचितुं ज्याकर्षणादिक्रियायां संबद्धुं शीलमस्येति सव्यसाची ॥ 4-43-33 अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये भवति। दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ॥ 4-43-34 उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामिति झo पाठः । नक्षत्रान्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः ॥ ॥ त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|